OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, January 15, 2024

 इस्रयेल-हमास् युद्धः १०० दिनानि अतीतः। 

> हमास् इति सायुधसंघटनस्य  उन्मूलनं लक्ष्यीकृत्य इस्रयेलेन ओक्टोबर् सप्तमदिनाङ्के आरब्धः युद्धः शतं दिनानि अतीतः। आहत्य २३ लक्षं जनेषु २३,३५७ जनाः एतदाभ्यन्तरे मृत्युमुपगताः। तेषु ९६०० बालकाः, ६७५० महिलाश्च अन्तर्भवन्ति। ५९४१० जनाः व्रणिताः जाताः। 

  गासा प्रदेशस्य ८५% जनाः अभयार्थिनः जाताः - १७ लक्षम्। शतशः शैक्षिकसंस्थाः, आराधनालयाः, 'आंबुलन्स्'यानानि च विनाशं गतानि। ३. ५९ लक्षं वासगृहाणि च विनाशितानि। 

  संयुक्तराष्ट्रसंघटनस्य लोकराष्ट्राणां च युद्धविरामाभ्यर्थनाः निष्करुणं  निरस्य युद्धः अनुवर्तते।