OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, January 3, 2024

 एष्यायाः बृहत्तमस्य कौमारकलोत्सवस्य  श्वः शुभारम्भः। 


कोल्लम्> एष्याभूखण्डस्य बृहत्तमः कौमारकलोत्सवः - केरल राज्यस्तरीयः विद्यलयीयकलोत्सवः - कोल्लं नगरे श्वः आरप्स्यते। ६२ तमः राज्यस्तरीयकलोत्सव एव जनवरी ४ दिनाङ्कतः ८ दिनाङ्कपर्यन्तं विधास्यति। संस्कृतकलोत्सवः अपि अस्य अंशतया प्रचलिष्यति। 

  २३९ स्पर्धाविभागेषु १४,००० उच्च-उच्चतरछात्राः २३ वेदिकासु स्पर्धिष्यन्ति। सामान्यशैक्षिकनिदेशकः एस् षानवास् वर्यः कलोत्सवध्वजम् उन्नेष्यति। तदनन्तरं मुख्यमन्त्री पिणरायि विजयः उद्घाटनं करिष्यति। 

  येन जनपदेन अधिकतमं विजयाङ्काः प्राप्स्यते तस्मै जनपदाय सुवर्णचषकः प्रदास्यति। सर्वेष्वपि कलोत्सवदिनेषु छात्रेभ्यः मृष्टान्नं भोजनव्यवस्था अपि सज्जीकृता अस्ति।