OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, January 15, 2024

 काश्मीरे भीकराक्रमणं प्रतिरोद्धुम् 'ओपरेशन् सर्वशक्ति' परियोजना।

नवदिल्ली> जम्मु काश्मीरे पाकिस्थानस्य सहयोगेन क्रियमाणं भीकराक्रमणानि प्रतिरोद्धुम् ओपरेशन् सर्वशक्ति' नामिका परियोजना भारतसेनया आविष्क्रियते। पिर्पञ्चल् पर्वतश्रेणीनां पार्श्वाभ्यामुभाभ्यां आगच्छः  भीकरसंघस्य प्रतिरोध एव अनेन लक्ष्यीक्रियते। रजौरि, पूञ्च् क्षेत्रेषु भीकराक्रमणं वर्धयतीत्यत एवायं परियोजना निर्णीता। 

  गृहमन्त्री अमित शाहः, राष्ट्रियसुरक्षा उपदेष्टा अजित् डोवलः, सैनिकाधिकारिणः, गुप्तान्वेषणाधिकारिणः इत्येतेषाम् उपवेशनानन्तरमेव अयं निर्णयो जातः।