OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Tuesday, July 15, 2025

 तृतीया निकषस्पर्धा भारतात् विनष्टा। 

अग्रेसराणामालस्यस्य स्थाने कृतः पृष्ठगामिनां प्रयत्नोSपि विफलः। 

लोर्ड्स्> एकैकं कन्दुकमपि पक्षद्वयाय अमृततुल्यं मूल्यवदासीत्। इङ्गलण्टेन सम्मानितस्य १९३ इति विजयलक्ष्यस्य सार्थकाय अग्रेसरताडकानाम् अलसतया रविवासरे ५८/४ इति प्राप्ताङ्कसूचिका भारतेन प्राप्ता आसीत्। ततः ह्यः अष्टसु क्षेपणचक्रेषु त्रयः ताडकाः अपि बहिर्गत्वा ८२/७ इति परितापकरीम् अवस्थाम् अपतत्। अनेन पराजयः सुनिश्चितः। किन्तु ततः पुच्छस्थितैः  ताडकैः रक्षाप्रवर्तनमारब्धम्। रवीन्द्र जडेजः तस्य नेतृत्वमवहत्। सः १८१ कन्दुकेभ्यः ६१ धावनाङ्कैः अपराजितः जातः। निधीशकुमार रड्डिः  [५३ कन्दुकैः १३ धावनाङ्काः], जस्प्रीत बुम्रा (५४/५), मुहम्मद सिराजः (३०/४) इत्येवंप्रकारेण सहयोगं कृतवन्तः। किन्तु ७६ तमे क्षेपणचक्रे इङ्गलण्डदलीयस्य षोयिब् बषीर् इत्यस्य 'ओफ् स्पिन्' कन्दुकं सिराजेन प्रतिरुद्धमपि भ्रमणं कृत्वा द्वारकमपतत्। सिराजस्य द्वारकपातेन भारतस्यापि पतनं सम्पूर्णमभवत्। २२ धावनाङ्कानां पराजयः!

  प्राप्ताङ्कसूचिका - इङ्गलण्डः ३८७, १९२। भारतं ३८७, १७०। अनेन पञ्चप्रकरणात्मिकायां परम्परायाम्  इङ्गलण्डः २-१ इति अग्रे अस्ति।