OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

English/Hindi Version

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, July 22, 2025

 वि एस् वर्याय अनन्तपुर्याम् अन्तिमोपचाराः समर्प्यन्ते। 

अनन्तपुर्यां मुख्यमन्त्री पिणरायि विजयः पुष्पचक्रं समर्पयति। समीपे इतरमन्त्रिणः राष्ट्रियनेतारश्च। 

श्वः जन्मग्रामे अन्त्यविश्रान्तिः।

अनन्तपुरी> ह्यः दिवंगताय केरलस्य भूतपूर्वमुख्यमन्त्रिणे जननायकाय च वि एस् अच्युतानन्दाय     अन्त्याभिवाद्यं समर्पयितुं दशसहस्रशः जनाः कर्मक्षेत्रम् अनन्तपुरीनगरं प्रवहन्ति। अद्य प्रातः आरभ्यः दर्बार् सभामण्डपं प्रति राज्यस्य विविधजनपदेभ्यः तस्य अनुयायिनः आराधकाः सामान्यजनाश्च स्वेषां जननायकम् एकमात्रमपि सन्द्रष्टुं आगच्छन्तः सन्ति। राजनैतिक-सांस्कृतिक-साहित्य-धार्मिकक्षेत्रेषु विराजमानाः प्रमुखाः अनन्तपुरीं प्राप्यमाणाः सन्ति। साम्यवादीदलस्य देशीयनेतारः अनन्तपुरीं प्राप्य अन्त्याभिवाद्यं समर्पितवन्तः। 

   अद्य मध्याह्नानन्तरं द्विवादने राजधानीनगरात् पुष्पालङ्कृते बस् याने राष्ट्रियवीथिमवलम्ब्य आलप्पुष़ जनपदस्थं 'वेलिक्ककं' भवनं प्रति विलापयात्रारूपेण अच्युतानन्दवर्यस्य भौतिकशरीरं नेष्यति। बुधवासरे प्रातः आलप्पुष़ा सि पि एम् दलस्य जनपदीयकार्यालये सामाजिकदर्शनस्य सुविधा स्यात्। सायं त्रिवादने औद्योगिकबहुमत्या सह आलप्पुष़ा श्मशाने शवसंस्कारकर्माणि विधास्यन्ति।