गासायुद्धम्।
अनुरञ्जनचर्चा स्थगिता।
गासा सिटी> गासायां २१ मासान् यावत् अनुवर्तमानं युद्धम् अचिरेण समाप्स्यतीति प्रतीक्षा अस्तं गच्छति। गासातः सेनाबलं पूर्णतया न अपाकरिष्यतीति इस्रयेलस्य मतेन युद्धविरामचर्चा स्थगिता। मध्यस्थराष्ट्रे खत्तरे जुलाई षष्ठे दिनाङ्के आरब्धा चर्चा युद्धविरामं प्रतीक्षते स्म।