OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, June 5, 2023

 जलं विना जीवितुं शक्याः द्विषष्टि सस्यविशेषाः संदृष्टाः।

 पश्चिमपर्वतमण्डलेषु अतिनिर्जलीकरणं सोढुं शक्याः द्विषष्टि संख्याकाः सस्यविशेषाः  वैज्ञानिकैः संदृष्टाः। जलदौर्लभ्यस्थलेषु अपि एतेषां सस्यविशेषाणां अतिजीवनं सुसाध्यं भवति। अन्येषां सस्यानाम् अतिजीवनाय अशक्येषु प्रदेशेषु अपि एते सस्यविशेषाः पुष्टिं प्राप्स्यन्ति। एते  'डेसिक्केषन् टोलरन्ट् वास्कुलार् ' इति नाम्ना विख्याताः। पूर्वम् एतानि सस्यानि अधिकृत्य कृतानि अध्ययनानि न्यूनमासीत्। अत एव एतान् सस्यविशेषानधिकृत्य लोकः न ज्ञातः इति वैज्ञानिकाः मन्यन्ते। पूनायाः अगार्कर् अनुसन्धानकेन्द्रस्य वैज्ञानिकाः एव सस्यविशेषाणां संद्रष्ट्रारः। नूतनतया संदृष्टेषु सस्येषु १६ संख्याकाः  सस्यविशेषाः केवलं भारते एव द्रष्टुं शक्यन्ते। द्वादश सस्यविशेषाणां पश्चिमपर्वतमण्डले एव सान्निध्यमस्ति। अध्ययनमिदं पश्चिमपर्वतमण्डलस्य जैववैविध्यमधिकृत्य अधिकज्ञानाय सहायकं भवति।