OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, April 12, 2023

आमसोण् वृष्टिवनानां नशीकरणे पुनरपि शीघ्रता।

-जयराजः कोट्टारम्

   आमसोण् वृष्टिवनेषु वननशीकरणं पूर्वतनसंवत्सरेभ्यः अपेक्षया मार्च् मासे प्रतिशतं १४ इति क्रमेण वर्धितम् इति नूतनानि अध्ययनफलानि। ब्रसीलस्य पूर्वभूतराष्ट्रपतेः नेतृत्वे विद्यमाने शासनकले अधिकतया वृष्ट्यटव्यः नाशिता‌ः। पश्चात् कालीने शासने समागतः नूतनः राष्ट्रपतिः लूयिस् इनासियो लुल ड सिलवः, 'अहं वननशीकरणप्रवर्तनानि सम्पूर्णतया रोधयिष्यामि' इति घोषितवान्।लुलमहोदयेन आविष्कृता योजना न विजयं प्राप्ता इत्यस्य सूचना भवति नूतनम् अध्ययनफल-प्रतिववेदनम् इति परिस्थितिवादिनः वदन्ति।

नाषणल् इन्स्टिट्यूट् फोर् स्पेस् रीसर्च् इत्यस्याः संस्थायाः प्रतिववेदनानुसारं विगते मासे (मार्च २०२३) ३५६ चतुरश्र कि.मी. व्याप्तानि वनानि नाशितानि इति उपग्रहछायाग्रहणेन प्रमाणीकृता च। आमसोण् वृष्टिवनानां संरक्षणं विना आगोलतापमानं १.५ डिग्रीतः न्यूनीकरणं असाध्यमिति अमेरिकादेशस्य वातावरणविशारदाः वदन्ति।