वंगविधानसभा राज्यपालेन भग्ना।
ममतायाः त्यागपत्रसमर्पणवैमुख्यं विफलमभवत्।
कोल्कोत्ता> विधानसभानिर्वाचने पराजिता अपि मुख्यमन्त्रिपदं ममता बैनर्जी वर्या न परित्यक्तवती इत्यतः शासनसंविधानस्य अधिकारम् उपयुज्य पश्चिमवंगस्य राज्यपालः आर् एन् रविमहोदयः सभां भग्नीकृत्य उद्घोषणं बहिर्नीतवान्।
स्वस्य दलस्य च पराजयकारणं निर्वाचनायोगस्य कुक्रीडा इत्यारोप्य ममता स्थानत्यागाय न सन्नद्धा आसीत्। मेय् सप्तमदिनाङ्कः ममताप्रशासनस्य अन्तिमदिनमासीत्।
अत्रान्तरे, भा ज पा सर्वकारस्य शपथकार्यक्रमः शनिवासरे सम्पत्स्यते। सुवेन्दु अधिकारी मुख्यमन्त्री भविष्यति इति सूच्यते।