OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, April 17, 2019

लोमवती मधुकर्कटी। पश्चिमाद्रिपङ्क्तितिषु नवीना मधुकर्कटी लब्धा।
-डा. अभिलाष् जे
   कोट्टक्कल्> तमिल्नाट् राज्यस्य कोत्तगिरि वनेषु पूर्णतया लोमयुक्तां मधुकर्कटीं प्राप्ता। कोट्टक्कल् आर्यवैद्यशालायाः औषधोद्यान-गवेषणकेन्द्रस्य सस्यवर्गीकरणविभागस्य शास्त्रकारस्य डा.को एम् प्रभुकुमारस्य तथा डा.इन्दिरा बालचन्द्रस्य च नेतृत्वे प्रवृत्ते गवेषणे नवीना मधुकर्कटी प्रत्यभिज्ञाता । समान्य मधुकर्किटीतः विभिन्ना भवति एषा इति डा. इन्दिरा बालचन्द्रेन उक्तम्। पुष्पाणि पीतवर्णानि सन्ति। फलानां रूपं सामान्यमधुकर्कटीतः लघु भवति। नीलगिरि वनेषु अपूर्वाणां सस्यानां अध्ययने अस्ति अस्य अवगमनम्। एतत् सस्यं दक्षिण अमेरिक्कायां विद्यमान वास्कोण्सेल्लिया प्यूबसेन्स् अस्तीति निर्णीतमस्ति। मधुररसमपि न्यूनमेव। अस्यां जीवकम्  सी, ए पोट्टास्यं इत्यादीनां बाहुल्यं वर्तते। अस्य पाप्पयिन् इति वस्तुना औषधनिर्माणं भवति।  समुद्रतलात् ४९०० तः ९८०० उपरि भागे वर्तन्ते।मालियड्करा ए एन् एम् महाविद्यालयस्य सस्य शास्त्रविभागस्य अध्यापकः डा. सी एन् सुनिलः, पूर्व शास्त्रकारः नवीन कुमारः तन्त्रांश विभागस्य अङ्गः बिनु प्रकाशः इत्येते सन्ति गवेषकाः।