OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, September 4, 2026

 बहिराकाशनिलयं केरलात् अद्य द्रष्टुं शक्यते। 


कोच्ची> आकाशदृश्येषु उत्सुकानां केरलीयानां अन्तराष्ट्र बहिराकाशनिलयं नग्ननेत्रैः द्रष्टुम् अवसरः। शुक्रवासरे सायं ७. ४० वादनतः ७. ५५ पर्यन्तं निलयं द्रष्टुं शक्यते। 

  प्रज्वलन् , शीघ्रतया सञ्चरन्, दक्षिण-पश्चिमाकाशात् उत्तर-पूर्वीयदिशां प्रति चलन्तं प्रकाशबिन्दुः एव निलयमभिज्ञातुं सूचना। अर्धकेरलीयः नासाशास्त्रज्ञः अनिल मेनोनः निलये अस्तीति विशेषः। इतरे षट् जनाश्च तस्मिन् विद्यन्ते। 

  भूमेः ४०० कि मीटर् उच्चे होरायां २८,००० कि मीटर् शीघ्रतायामेव निलयस्य सञ्चारः। प्रतिदिनं प्रायेण १६ वारं भूमिं परिक्रमति।