बहिराकाशनिलयं केरलात् अद्य द्रष्टुं शक्यते।
कोच्ची> आकाशदृश्येषु उत्सुकानां केरलीयानां अन्ताराष्ट्र बहिराकाशनिलयं नग्ननेत्रैः द्रष्टुम् अवसरः। शुक्रवासरे सायं ७. ४० वादनतः ७. ५५ पर्यन्तं निलयं द्रष्टुं शक्यते।
प्रज्वलन् , शीघ्रतया सञ्चरन्, दक्षिण-पश्चिमाकाशात् उत्तर-पूर्वीयदिशं प्रति चलन्तं प्रकाशबिन्दुमेव निलयमिति अभिज्ञायतामिति निर्देशः। अर्धकेरलीयः नासाशास्त्रज्ञः अनिल मेनोनः निलये अस्तीति विशेषः। इतरे षट् जनाश्च तस्मिन् विद्यन्ते।
भूमेः ४०० कि मीटर् औन्नत्ये प्रतिहोरायां २८,००० कि मीटर् इत्येवं जवेन भवति निलयस्य सञ्चारः। प्रतिदिनं प्रायेण १६ वारं भूमिं परिक्रमति।
