दिल्यां वायूप्रदूणं नियन्त्रितुम् क्रित्रिमवर्षापातनश्रमः विफलो जातः ।
नवदिल्ली> .प्रतिदिनं वायूप्रदूषणेन खिन्नानां दिल्लीनिवासिनाम् आश्वासाय क्रित्रमवर्षापातः कल्पितः । किन्तु वर्षापातनाय कृतसंकल्प मेघोत्तेजनं ( cloud seeding ) पराजितम् अभवत्। ह्यः मध्याह्ने उत्तेजनं कृतम्। किन्तु मेघजालेषु जलांशः २०% इत्यस्मात् न्यूनम् आसीत् इत्यनेन वृष्टिः न अभवत् इति काणपुरस्य ऐ ऐ टी संस्थया उक्तम्। अद्य कर्तुं निश्चितं मेघोत्तेजनं अनुकूवातावरणस्य अभावेन न कृतम्। एकवारं मेघोत्तेजनाय ६४ लक्षं रूप्यकाणां व्ययः अस्ति। अद्य दिल्यां वायूप्रदूषणसूचिका ३०० इत्यस्मात् उपरि अस्ति।
