OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, July 15, 2024

 अन्धान् श्रावयितुं 'कीबो' समागता। 

६० संख्याकाः भाषाः अनया पठिष्यन्ते।

केरलराज्ये विद्यमाने कासरगोडस्थे सर्वकारीय-कलाशालायामपि 

  नवदिल्ली> संस्कृतं चैनीस् इत्यारभ्य  ६० संख्याकाः भाषाः उच्चैः पठितुं शक्यते 'कीबो' इति नामिकायाः निर्मितबुद्धियुक्तायाः सङ्गणकसुविधायैः। दृश्यान्धानां साहाय्यार्थं निर्मिता भवति इयं सुविधा। विभिन्नभाषायां विरचितानि पुस्तकानि स्वस्य इष्टतमभाषायां श्रोतुमसरः अनया सिध्यते अन्धेभ्यः। 

   लोकसभायाः संसद् पुस्तकालयः, कोलकत्त राजभवनं, ऐ ऐ टि दिल्ली, केरल - कर्णाटक - गुजरात् - बेरहांपूर -त्रिपुर विश्वविद्यालयेषु च सज्जिताः सन्ति। इदानीं इदं प्रथमथया केरलराज्ये विद्यमाने कासरगोडस्थे सर्वकारीय-कलाशालायामपि सुविधेयं सज्जिताः सन्ति। हस्तेन लिखितं टिप्पणी-पुस्तकमपि पठितुं 'कीबो' सक्षमा भवति। अतः नयनान्धतया पीडितानां पिपठिषूणं हृदयेषु ज्ञन- विज्ञानकमलानां विकासाय एषा 'कीबो' उपकरोति।