OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Friday, May 16, 2025

 पृथिव्याः अन्तःस्थितं महाधनम् ।  1,70,000 संवत्सरपर्यन्तं पर्याप्तं हैड्रोजनस्य स्रोतः इति अध्ययनम्।

  पृथिव्याः गर्भभागे रूपीकृताः स्वाभाविकाः हैड्रोजन-सञ्चयाः वैश्विकम् इन्धन-आवश्यकतां 1,70,000 (सप्तति सहस्राधिक एक लक्षं) वर्षाणि यावत् उपयोक्तुं समर्थाः स्युः इति नवीनम् अध्ययनम् सूचयति।

   विश्वस्य अनेकप्रदेशेषु विशेषतया अमेरिकादेशस्य त्रिंशतधिक-राज्येषु एवं प्रकारस्य हाइड्रोजन्-स्रोतांसि सन्तीति अध्ययनम् दर्शयति। एषः अनुसन्धानः ओक्सफोर्ड्-विश्वविद्यालयस्य भू-रसायनविभागाध्यक्षस्य प्रोफेसर् क्रिस् बलन्टैन्  इत्यस्य नेतृत्वेन कृतः। Nature Reviews Earth and Environment इत्यस्यां  प्रख्यातायां वैज्ञानिक-पत्रिकायाम् एषः शोधः प्रकाशितः अस्ति।

   पाषाणानि जलम् च मिलित्वा याः स्वाभाविकाः रासायनिकक्रियाः जाताः, ताभ्यः हैड्रोजनस्य उत्पत्तिः भवति। एते नैसर्गिकानि हैड्रोजन् स्रोतांसि कार्बण्-रहितस्य ऊर्जस्य दिशायाम् अस्मान् नेष्यन्ति। अल्पसमये एव अल्बेनियायाः पश्चिम-अफ्रिकायाः च प्रदेशयोः क्रोमियम्-खननक्रियासु पृथिव्याः अधस्तले विशालः हाइड्रोजन्-सञ्चयः अस्ति इत्यपि ज्ञातम्। इदम् अध्ययनम् भाविष्यस्य हरित-ऊर्जानीतये महत्त्वपूर्णम् एकं द्वारम् उद्घाटयिष्यति।