OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, September 10, 2024

धरातलं प्रति आगच्छन्तः अपोफिस् नामकः उल्कापिण्डः, परिस्थितिः भीतिदा अस्ति इति इसरो संस्थायाः अध्यक्षः।

 अपोफिस् इति महद्भयंकरः उल्कापिण्डः भारतीय-अन्तरिक्ष-अनुसन्धान-संस्था (इसरो) द्वारा निरन्तरम् निरीक्ष्यते। पृथिव्याः समीपं प्रति आगच्छन् एषः उल्कापिण्डः 2029 तमे वर्षे अप्रिलमासस्य त्रयोदशे दिने पृथिव्याः अत्यन्तं समीपतः गमिष्यतीति अपेक्ष्यते। www.samprativartah.in

  उपग्रह-सञ्चालनानि तथा ग्रहान्तर-पर्यवेक्षण-कार्यक्रमैः सह विदेश-अन्तरिक्ष-संस्थानैः सहकार्यं कुर्वन्तः 'ग्रहीय-रक्षा' इति क्षेत्रे अपि इसरो संस्थया सक्रियता अस्ति। पृथिवीं प्रति भीषणं ददतः  अन्तरिक्षवस्तूनां निरीक्षणं, तेषां प्रति सुरक्षा-प्रविधेः विकासश्च अस्य लक्ष्यमस्ति।

  मानवजातेः वास्तविकं भीषणं महद्भिः उल्कापिण्डैः सह सम्भाव्यम् संघट्टनं भवति इति इसरो संस्थायाः अध्यक्षः श्रीमान् एस्. सोमनाथः एन् डि टि विं प्रति   कथितवान्। अस्य भीषणस्य सम्बन्धतया सक्रियतया कार्यं कुर्वतः इसरो संस्थायाः 'अन्तरिक्षवस्तूनां निरीक्षण-विमर्श-कार्यक्रम' (नॆत्र) इति योजनया अपोफिस् इति उल्कापिण्डः सूक्ष्मतया निरीक्ष्यते। अस्माकं जीवनाय एकैव पृथिवी अस्ति। अपोफिस् इत्यस्य जनितं भीषणं च भविष्ये सम्भाव्यम् अपि भीषणं निवारयितुं भारतस्य सर्वेषु राष्ट्रेषु सहकार्यं भविष्यति इति श्रीमान् एस्. सोमनाथः उक्तवान्।