OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, December 26, 2023

 आदित्य एल् आँण्  गम्भीरपदं प्रविश्यति। प्रभामण्डलप्रवेशस्य निम्नगणना समारब्धा।

   भारतस्य प्रथमसौरयोजना इति प्रसिद्धा आदित्य एल् आँण् इत्यख्यायाः सूर्यप्रभामण्डलप्रवेशस्य अनुकूलसमयः समागतः। तदर्थं निम्नगणना समारब्धा इति इसरो द्वारा न्यवेदिता। भूतलात् १५ लक्षं किलोमीट्टर् दूरं प्राप्य लग्राञ्च् इति बिन्दौ भ्रमणपथस्य समीपं वर्तते आदित्य एल् आँण् । सूर्यस्य समीपवर्ती इति निर्णीतः बिन्दुः भवति लग्राञ्च्। विना विलम्बं लग्राञ्च् इति प्रभामण्डलं प्रवेष्टुं शक्यते इति ऐ एस् आर् ओ अधिकारिणा प्रबुध्यते। २०२४ तमे जनुवरि ६ दिनाङ्के श्रमः सफलं भविष्यति इति ऐ एस् आर् ओ  अधिकारिणः अवदन्।