केरलमभिव्याप्य चतुर्षु राज्येषु उपनिर्वाचनं विज्ञापितम्।
मतदानं जूण् १९ ; मतगणना जूण् २३।
नवदिल्ली> राष्ट्रस्य पञ्चसु विधानसभामण्डलेषु जूण् मासस्य एकोनविंशे दिनाङ्के उपनिर्वाचनं विधातुं केन्द्रनिर्वाचनायोगेन निर्णीतम्। व्यवहारनियमः प्राबल्यमागतः।
गुजराते काडि, विसवदरम् इति मण्डलद्वये, केरलं, पञ्चाबः, पश्चिमवंगः इत्येतेषु राज्येषु यथाक्रमं निलम्बूरं, लुधियाना, कालिगञ्च् इति एकैकस्मिन् मण्डले च उपनिर्वाचनं विधास्यति। मतगणना त्रयोविंशे दिनाङ्के भविष्यति।