यू एसे द्वौ इस्रयेलीयौ स्थानपतिकार्यकर्तारौ [Embassy Officers] भुषुण्डिप्रयोगेण मृतौ।
वाषिङ्टणः> अमेरिकायां वाषिङ्टणे जूतीयवस्तुप्रदर्शनालयस्य [Museum] समीपं इस्रयेलस्य स्थानपतिकार्यालयस्य द्वौ अधिकारिणौ भुषुण्डिप्रयोगेण मृतौ। प्रादेशिकसमयानुसारेण बुधवासरे सायमासीदियं दुर्घटना। यू एसे जूतसमुदायेन आयोजिते कार्यक्रमे भागमूढ्वा निवृत्तान् चतुरः लक्ष्यीकृत्य भुषुण्डिप्रयोगः कृतः। गासायाम् इस्रयेलस्य सैनिकाक्रमणस्य भूमिकायामासीत् आक्रमणम्।
अपराधीति सन्दिह्यमानः षिकागोनिवासी एलियास् रोड्रिग्स् नामकः त्रिंशत् वयस्कः निगृहीतः।