OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, May 23, 2025

 यू एसे द्वौ इस्रयेलीयौ स्थानपतिकार्यकर्तारौ [Embassy Officers] भुषुण्डिप्रयोगेण मृतौ। 

वाषिङ्टणः> अमेरिकायां वाषिङ्टणे जूतीयवस्तुप्रदर्शनालयस्य  [Museum] समीपं इस्रयेलस्य स्थानपतिकार्यालयस्य द्वौ अधिकारिणौ भुषुण्डिप्रयोगेण मृतौ। प्रादेशिकसमयानुसारेण बुधवासरे सायमासीदियं दुर्घटना। यू एसे जूतसमुदायेन आयोजिते कार्यक्रमे भागमूढ्वा निवृत्तान् चतुरः लक्ष्यीकृत्य  भुषुण्डिप्रयोगः कृतः। गासायाम् इस्रयेलस्य सैनिकाक्रमणस्य भूमिकायामासीत् आक्रमणम्। 

  अपराधीति सन्दिह्यमानः षिकागोनिवासी एलियास् रोड्रिग्स् नामकः त्रिंशत् वयस्कः निगृहीतः।