कन्नडसाहित्यकारी बानु मुष्ताख् बुक्कर् पुरस्कारेण समादृता।
![]() |
बानु मुष्ताखः बुक्कर् पुरस्कारेण। |
लण्टनं> कन्नडसाहित्यकारी सामाजिक प्रवर्तका नियमवादिनी च बानु मुष्ताख् अस्य वर्षस्य बुक्कर् अन्ताराष्ट्रपुरस्कारेण समादृतवती। तस्याः १२ कथानां समाहारः 'हार्ट् लाम्प्' इत्यस्य ग्रन्थस्य आङ्गलभाषानुवादमवलम्ब्य कन्नडभाषायै इदंप्रथमतया इयं पुरस्कारलब्धिः।