महाराष्ट्रे ५६ जनाः कोविड् बाधिताः।
मुम्बई> महाराष्ट्रे सप्ताहद्वयेन कोविड्वैराणुबाधितानां संख्या ५६ अभवत्। केरलं तमिलनाडु राज्यद्वये अपि अनेके कोविड्बाधिताः वर्तन्ते। राष्ट्रमशेषं २५७ कोविड् प्रकरणानि प्रस्तुतानि सन्तीति केन्द्र स्वास्थ्यमन्त्रालयेन निगदितम्।
भारतं विना चीनः, सिङ्गपुरं, होङ्कोङ् राष्ट्रेष्वपि कोविड् प्रकरणानि अधिकतया वर्तन्ते।