पाक्भीकरतानाच्छादनाय
'नयतन्त्रशस्त्रक्रिया' समारब्धा।
नवदिल्ली> पाकिस्थानस्य भीकरतासंवर्धननयम् अधिकृत्य ३३ राष्ट्राणि प्रति विशदीकर्तुं सप्तसंख्याकस्य भारतीयसंसद् प्रतिनिधिसंघस्य सन्दर्शनपर्यटनं समारब्धम्।
शिवसेनादलस्य श्रीकान्त एकनाथ षिन्डे वर्येण नीयमानः संघः अद्य यू ए ई राष्ट्रं प्रस्थितः। मेय् ३१ दिनाङ्कपर्यन्तं दीर्घितायां यात्रायां यू ए ईम् विना कोङ्गो सियेरा लियोण् लैब्रीरिया इत्येतानि राष्ट्राणि संघेन सन्द्रक्ष्यन्ते।