दिल्ल्याम् अत्युष्णस्य पश्चात् धूलीवातः वृष्टिः च।
दिल्ल्यां मासेषु अत्युष्णस्य विरामः- वातावरणे झटिति जातः व्यत्यासः जनान् पीडयति। धूलीवातः वृष्टिः च अधिकं क्लेशम् उत्पादयत्। ह्यः प्रातः ४०° इत्यासीत् तापमानः। सायं काले धूलीवातः शक्ता वृष्टिः च अभवताम्। होरायां ४१ - ७९ कि.मी वेगेन आसीत् वातः। सायं ७:४५ - ८:३० समयेषु दिल्लीप्रदेशेषु सामान्येन सर्वत्र वातः ववौ।