विद्यालयपिधाने निर्णीते उत्तेजिताः निजिविद्यालयप्रबन्धकाः अभिभावकाः च
-वार्ताहरः वत्स देशराज शर्मा।
विद्यालयपिधाने निर्णीते उत्तेजिताः निजिविद्यालयप्रबन्धकाः अभिभावकाः च
-वार्ताहरः वत्स देशराज शर्मा।
बंगाले निर्वाचनसन्दर्भे तृणमूल-भाजपायोः मध्ये सङ्घर्षः। केन्द्रसेनायाः गोलिकाप्रहरे चत्वारः मृताः।
कोल्कत्त> पश्चिमवंगे चतुर्थ श्रेण्यां निर्वाचनप्रसङ्गे तृणमूल-भाजपायोः मध्ये सङ्घर्षः जातः। केन्द्रसेनायाः गोलिकाप्रहरे चत्वारः जनाः मृताः। कूच् बेहारप्रदेशे आसीत् सङ्घर्षः। घटनामधिकृत्य निर्वाचनायोगेन आवेदनम् आदिष्टम्। अष्टभिः चरणैः आयोजिताभिः निर्वाचनेषु चतुर्थश्रेण्याः प्रक्रमः आसीत् इदानीम्। मेय्मासस्य द्वितीय दिनङ्के मतदानगणना भविष्यति।
तिरोभूतस्य सैनिकस्य चित्रं सामाजिकमाध्यमेषु - मावोवादिभिः सम्प्रेषितम्?
विजपुरं> छत्तीसगढस्य बस्तर प्रविश्यायां गतदिने मावोवादिभिः सह दुरापन्ने संघट्टने तिरोभूतः 'कोब्रा'सैनिकः राकेश्वरसिंह मन्हासः इत्यस्य छायाचित्रं मावोवादिभिः सामाजिकमाध्यमद्वारा प्रसारयति। मावोवादिभिः बन्धिरूपेण गृहीतः इति सन्दिह्यमान सन्दिह्यमानस्य अस्यछायाचित्रं तैरेव बहिः प्रकाशितमिति सूच्यते। कस्यचन कुटीरस्य पुरतः उपविष्टरूपेणैव चित्रं दृश्यते। मन्हासस्य विमोचनाय मध्यस्थमार्गमन्विष्य कस्यचन प्रादेशिकमाध्यमप्रवर्तकमुपयाति स्म इति श्रूयते। किन्तु अस्य प्रस्तावस्य आधिकारिकतां निरीक्ष्यते इति सर्वकारेण स्पष्टीकृतम्।
केरलस्य मुख्यमन्त्री भूतपूर्वमुख्यमन्त्री च कोविड्बाधितौ।
कोच्ची> केरले निर्वाचनसमाप्त्यनन्तरं कोविड्व्यापनं तीव्रं वर्तते। मुख्यमन्त्री पिणरायि विजयः, भूतपूर्वः मुख्यमन्त्री उम्मन् चाण्टिः च कोविड्बाधितौ अभवताम्। पिणरायि विजयः कोष़िक्कोट् सर्वकारीयातुरकलालये उम्मन् चाण्टिः अनन्तपुर्यां निजीयातुरालये च प्रवेशितौ। उभयोरपि स्वास्थ्यावस्था शोभना वर्तते। ये जनाः एताभ्यां सह सम्पर्के वर्तिताः तैः एकान्तवासं प्रवेष्टव्याः इति उभे नेतारौ अभ्यर्थितवन्तौ।
भारते द्विवारं कोविड् वैराणोः अति व्यापनम्। पिधानं न भविष्यतीति प्रधानमन्त्री।
राष्ट्रे कोविड् वैराणोः द्विवारव्यापनम् तीव्रतरम् अस्ति इति प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तम्। किन्तु आराष्ट्रं पिधानं न भविष्यति इति प्रधानमन्त्रिणा संसूचितम्| प्रथमचरणस्य व्यापनत्वापेक्षया तीव्रतरम् भवति इदानीन्तन वैराणुव्यापनम्; अतः अवधानता सुरक्षाप्रक्रमाः पालनीयाः इति तेन उक्तम्।
SSLC , +2 परीक्षाः अद्य प्रारभन्ते।
अनन्तपुरी> केरले दशमकक्ष्यायाः तथा द्वादशकक्ष्यायाश्च [SSLC, +2] वर्षान्तसामान्यपरीक्षाः अद्य आरभन्ते। श्वः आरप्स्यमाणां VHSE परीक्षामभिव्याप्य त्रिष्वपि विभागेषु नवलक्षं छात्राः परीक्षार्थिरूपेण सन्ति।
SSLC परीक्षाः एप्रिल् मासस्य २९तमे, VHSE परीक्षाः २६ तमे च दिनाङ्के समाप्यते। SSLC परीक्षार्थं २९४७ केन्द्रेषु ४,२२,२२६ छात्राः सन्ति। गल्फ् राष्ट्रेषु ९ केन्द्राणि, ५७३ छात्राः, लक्षद्वीपे ९ केन्द्राणि ६२७ छात्राश्च परीक्षामभिमुखीकुर्वन्ति।
केरले मतदानं प्रतिशतं ७४.०२।
अनन्तपुरी> केरलस्य पञ्चदशतमे विधानसभानिर्वाचने ७४.०२ % मतदायकाः गतदिने स्वाभिमतं ज्ञापितवन्तः। प्रचारणे राजनैतिकदलैः प्रकाशितस्य उत्साहानुसारं मतदानप्रकाशनं नाभवदिति सूच्यते।
उन्नततमं मतदानं कोष़िक्कोट् जनपदे ज्ञापितम् - ७८.३१%। न्यूनातिन्यूनं पत्तनंतिट्टा जनपदे दृष्टम् - ६८.१८%। मतगणना मेय् मासस्य द्वितीयदिने भविष्यति।
इन्डोनेष्या पूर्वटिमोर देशयोः अतिवृष्ट्या १६१ मरणानि।
जक्कार्ता> इन्डोनेष्या पूर्वटिमोर् देशयोः दिनद्वयात्पूर्वमारब्धायाः अतिवृष्ट्या अंशतया जातेन मृत्प्रपातेन जलोपप्लवेन च १६१ जनाः मृत्युमुपगताः। अनेके अदृष्टाश्चाभवन्।
'फ्लोर्' द्वीपसमूहे आरब्धा अतिवृष्टिः पूर्वटिमोरदेशस्य राजधानीं दिलीतिस्थानं व्याप्ता जाता। पङ्कसङ्कुलः प्रतिकूलपर्यावरणञ्च रक्षाप्रवर्तनाय विघातं वर्तते इति सूच्यते।
तमिल्नाटे पुतुच्चेर्यां च अद्य विधानसभानिर्वाचनम्।
चेन्नै> तमिल्नाट् राज्ये पुतुच्चेरी केन्द्रशासनप्रदेशे च अद्य विधानसभानिर्वाचनं प्रचलति। तमिल्नाट् विधानसभायाः २३४ मण्डलेषु पुतुच्चेर्याः ३० मण्डलेषु च एकेनैव चरणेन मतदानं विधास्यति। कन्याकुमारी लोकसभामण्डले चाद्य निर्वाचनं प्रचलति।
तमिलनाडु राज्ये ६.२९कोटि मतदायकाः स्वाधिकारं विनियोक्ष्यन्ति। ३९९८ स्थानाशिनः सदस्याभिलाषिणः सन्तः स्पर्धामञ्चे सन्ति। डि एम् के - कोण्ग्रस् सख्यं तथा ए ऐ ए डि एम् के - भाजपा संख्यं च प्रधानप्रतियोगिनौ वर्तेते। अभिनेतुः कमलहासस्य नेतृत्वे वर्तमानं 'मक्कल् नीतिमय्य'मिति राजनैतिकदलं च १४४ मण्डलेषु स्वशक्तिपरीक्षणं करोति।
जनाधिपत्यं विजयताम् - छात्रैः निर्वाचनावबोधप्रचरणं कृतम्।
भारते कोविड्प्रकरणानि अनुदिनं प्रवर्धते। प्रधानमन्त्रिणः नेतृत्वे उन्नतस्तरोपवेशनं सम्पन्नम्।
नवदिल्ली> भारते कोविड्रोगिणां संख्या अनुदिनं वर्धते। गतदिने नूतनानां कोविड्रोगिणां संख्या ९३,२४९ अभवत्। गतसेप्तम्बरमासानन्तरं विद्यमाना उच्चतरसंख्येयम्।
ह्यः प्रधानमन्त्रिणः नेतृत्वे राज्यानाम् उन्नतताधिकारिणाम् उपवेशमायोजिम्। कोविड्प्रकरणानि नियन्त्रयितुं अवश्यान् पदक्षेपान् स्वीकर्तुं निर्णयः अभवत्। हस्तशुचित्वं, सामाजिकदूरपालनं, मुखावरणधारणम् इत्यादीनां पालनाय अवबोधः कार्यः।
महाराष्ट्रं पञ्चाबः, छत्तीसगड्, केरलमित्यादिषु राज्येषु कोविड्रोगः क्रमातीतेन वर्धते।
छत्तीसगढ़े मावोवाद्याक्रमणे हताः सैनिकाः २२ अभवन्।
नवदिल्ली> शनिवासरे सि आर् पि एफ् सैनिकान् प्रति दुरापन्ने मावोवादिनाम् आक्रमणे हतानां सैनिकानां संख्या २२ अभवन्। ५ सैनिकाः मृताः इत्यासीत् प्रथममावेदनम्। किन्तु मावोवादिभिः अपहृतेषु सैनिकेषु १७ पुरुषाणां मृतदेहाः बीजपुरं-सुक्म जनपदयोः सीमायां वनान्तर्भागे दृष्टाः आसन्। एकः अपि द्रष्टव्यः इति सैनिकाधिकारिभिः सूचितम्।
शनिवासरे पञ्चहोरापर्यन्तं दीर्घिते संघट्टने कञ्चित् महिलामभिव्याप्य ९ मावोवादिनः हताः। १५ मावोवादिनः मृत्युमुपगताः स्युरिति सि आर् पि एफ् सैनिकानामूहः। ३०० संख्याकं सैनिकव्यूहं ५०० संख्याकः मावोवादिसंघः आक्रमणं कुर्वन्नासीत्।
कोविडस्य द्वितीयतरङ्गः - महाराष्ट्रे कर्कशनियन्त्रणानि।
मुम्बई> महाराष्ट्रे कोविड्-१९ रोगस्य द्वितीयतरङ्गव्यापनम् अतितीव्रमित्यतः कर्कशानि नियन्त्रणानि विधातुं राज्यसर्वकारेण निश्चितम्। प्रतिशुक्रवासरं रात्रौ अष्टवादनादारभ्य सोमवासरे उदयात् परं सप्तवादनपर्यन्तं सम्पूर्णं पिधानं प्रख्यापितम्।
गतदिने राज्ये उपार्धलक्षं जनाः कोविड्बाधिताः अभवन्। मुम्बई नगरे अपि रोगबाधितानां प्रतिदिनसंख्या दशसहस्रपर्यन्तम् जाता। भारतस्य प्रतिदिननूतनरोगिषु ६०% महाराष्ट्रे एव।
केरले मतदानं कुजवासरे; घोषप्रचारणमद्य समाप्यते।
कोच्ची> केरले विधानसभानिर्वाचनस्य प्रचारणं तीव्रं तीक्ष्णं च भूत्वा समाप्तिचरणमायाति। प्रचारघोषः अद्य सायं सप्तवादने समाप्स्यते।
सि पि एम् नेतृत्वे वामपक्षजनाधिपत्यसख्यं अविरामप्रशासनाय प्रयतते। कोण्ग्रस् दलनेतृत्वे ऐक्यजनाधिपत्यसख्यं तु विनष्टं प्रशासनं प्रत्याहर्तुं प्रयतते। भा ज पा दलनेतृत्वे एन् डि ए नामकं सख्यं तु पूर्वोक्तं सख्यद्वयं पराजित्य प्रधानमन्त्रिणः नरेन्द्रमोदिनः प्रभावेण स्वकीयशक्तिं प्रकटयितुमुत्सहते च। त्रयाणामपि सख्यानां राष्टियनेतारः यावच्छक्यं केरले वर्तमानाः सन्तः प्रचारणस्य नेतृत्वमावहन्ति स्म।
१४० मण्डलेषु एप्रिल् षष्ठदिनाङ्के प्रभाते सप्तवादनतः सायं सप्तवादनपर्यन्तं कोविडनुशासनपूर्वकमेव मतदानवेला।
तय्वाने रेल् यानदुर्घटना - ५१ मरणानि।
ताय्पेय्> तय्वानदेशस्य पूर्वभागे टोरोको प्रदेशे रेल् यानस्य पण्ययानेन सह घट्टनेन ५१ यात्रिकाः मृताः। १४६ आहताः। राष्ट्रे कतिपयदशकाभ्यन्तरे सञ्जाता बृहत्तरा दुर्घटना एव गतदिने दुरापन्ना इति सूच्यते।
४८८ यात्रिकाः रेल्याने आसन् । याने कन्दरात् बहिरागते रेल् संस्थायाः स्वामित्वे वर्तमानं पण्ययानं गिरिश्रृङ्गस्थात् निर्माणस्थानात् अपगम्य लोहपथे पतितमासीत्। रेल् यानं पण्ययाने घट्टयित्वा तदाघातेन कन्दरस्य पार्श्वे अपि घट्टितम्। दुर्घटनामधिकृत्य अन्वीक्षणमारब्धमिति प्रधानमन्त्रिणा सू सेङ् चाङ् इत्यनेनोक्तम्।
कोविड्व्यापः तीव्रः - पूना पिधीयते।
पूना> महाराष्ट्रे कोविड्रोगः तीव्रेण व्याप्यते। पूनाजनपदे पिधानं प्रख्यापितम्। भोजनशालाः, विपणयः, मदिरालयाः, चलच्चित्रशालाः, 'माल्'नामकविक्रयणालयाः, आराधनालयाः इत्यादयः सप्ताहं यावत् पिधास्यन्ति। सर्वकारीयबस् यानसेवामभिव्याप्य सामान्यगमनागमनसुविधाः अपि सप्तदिनानि यावत्पिधास्यन्ते। सायं षड्वादनादारभ्य प्रभाते षड्वादनपर्यन्तं 'कर्फ्यू'नामकनिरोधः विधत्तः।
पूनाजनपदे गतदिने ६५ जना अपि कोविड्बाधया मृताः। आहत्य मृतानां संख्या १०,०३९ जाता। महाराष्ट्रस्य कोविड्मरणेषु १८% पूनाजनपदे एव। पिधीयते
रजनीकान्ताय फाल्के पुरस्कारः।
नवदिल्ली> भारतीयचलच्चित्रपुरस्कारेषु परमोन्नताय दादा साहेब फाल्केपुरस्काराय दक्षिणभारतस्य अभिनेतृप्रवीणः रजनीकान्तः चितः। २०१९तमवर्षस्य पुरस्कार एव रजनीकान्ताय लभते। १९९६ संवत्सरे शिवाजिगणेशस्य पुरस्कारलब्ध्यनन्तरं फाल्केपुरस्कारार्हः तमिलभिनेता भवति रजनीकान्तः।
मेय्मासस्य तृतीये दिने सम्पत्स्यमाने कार्यक्रमे पुरस्कारदानं भविष्यतीति वार्तावितरणविभागमन्त्रिणा प्रकाश् जावदेक्करेण उक्तम्। तमिल्नाडे विधानसभानिर्वाचनवेलायामेव पुरस्कारप्रख्यापनमभवत् इत्यस्मिन् विषये कोण्ग्रसादिभिः विपक्षदलैः विप्रतिपत्तिः प्रकाशिता।
औषधांशानां विपरिणामेन कोविड् वाक्सिनः विनष्टाः।
न्यूयोर्क्> जोण्सण् आन्ट् जोण्सण् संस्थायाः कोरोण प्रतिरोधौषधानाम् औषधगुणं विनष्टम्। औषधयोगक्रमस्य दोषत्वात् एव औषधस्यवीर्यं विनष्टम्। अत एव औषधस्य वितरणं अमेरिकेन स्थगितम्। अस्ट्रासेनेक- जोण्सण् आन्ट् जोण्सण् इत्ययोः सहकारितया इमिग्रन्ट् बयो सोलूषन् संस्थया एव वाक्सिनस्य निर्मणं करोति। उभयोः संस्थायोः औषध निर्माणम् एकस्मिन् शालायामेव भवति। औषधानां योगक्रमे अनवधानतया परस्पर व्यत्ययम् अभवत् इति कारणेन औषधं दुष्टम् अभवत्।
भूमेः तापः नियन्त्रितः भविष्यति। सूर्यं भागिकतया अच्छादयिष्यति। नूतना योजना बिल् गेट्सेन अवतारिता।
भूमेः पर्यावरणक्रमानपि परिवर्तयितुं क्षमतायुक्तेन अशयेन मैक्रोसोफ्ट् स्थापकः बिल्गेट्सः समागच्छति। भूगोलस्य अतितापनं न्यूनीकर्तुं सूर्यप्रकाशस्य प्रसरणमानस्य न्यूनीकरणमेव अनेन उद्दिश्यते। एतदर्थं हार्वार्ड् विश्वविद्यालयाय धनराशिरपि अर्पितवान्। भूमिं प्रति समागतान् सूर्यप्रकाशान् रोधित्वा शक्तिं न्यूनीकर्तुमेव अनया योजनया उद्दिश्यते। अमुं विषयमधिकृत्य इतः पर्यन्तं यत्रकुत्रापि विचिन्तनं नासीत् इति भवति समस्या। (भारतीयाः प्राक्तनकाले एवं चिन्तितवन्तः आसन् इति कोऽपि न जानन्ति वा ? सज्ञा सूर्ययोः कथा वैज्ञानिकी भवति इति इदानीम् अवगच्छामः)म्यान्मरसेनां विरुध्य लोकराष्ट्राणि। नरहत्या समाप्यतामिति निदेशः।
याङ्कूण्> ये प्रतिषिध्यन्ति तान् निष्करुणं निहननं कुर्वन्तं म्यान्मरराष्ट्रस्य सैनिकशासनं विरुध्य लोकराष्ट्राणां तीव्रः प्रतिषेधः। सायुधसेनादिने शनिवासरे बालकानभिव्याप्य ११४ जनाः सैन्येन निहताः। इतःपर्यन्तं चतुश्शताधिकाः जनाः निहताः सन्ति।
गतदिने सैन्येन हतानामन्त्येष्टिकर्मणि अपि भुषुण्डिप्रयोगः कृतः। सैन्यस्य नरमृगयामपलपन्तः जापान पदक्षिणकोरिय-ब्रिट्टन-अमेरिक्क-आस्ट्रेलिय-कानड-डेन्मार्क- जर्मनि-ग्रीस्-नेतर्लान्ट्-न्यूसिलान्ट् इत्येतेषां राष्ट्राणां रक्षामन्त्रिण संयुक्तप्रस्तावं कृतवन्तः।
भारत-इंग्लैण्डयोः एकदिवसीया क्रिकेटशृङ्खला भारतेन विजिता
पुणे नगरस्थे महाराष्ट्र-क्रिकेटसङ्घ-क्रीडाङ्गणे रविवारे भारत-इंग्लैण्डदलयोः मध्ये क्रीडिते तृतीयान्तिमायाम् एकदिवसीयायां स्पर्धायां भारतेन इंग्लैण्डवृन्दं पराजितम्। रोमाञ्चके द्वन्द्वे भारतेन सप्त धावनाङ्कैः विजयश्रीः अधिगता। अनेन सहैव भारतेन एतदिवसीया क्रिकेटशृङ्खला द्वे एकम् स्पर्धान्तरालेन स्वायत्तीकृता। इतः पूर्वं दलद्वयम् अन्तरा क्रीडिता विंशतिः प्रतिविंशतिः क्षेपचक्रीया शृङ्खला अथ च क्रिकेटनिकषशृङ्खला अपि भारतेनैव विजिते।
पणकं विजित्य इंग्लैण्डदलेन कन्दुकक्षपणं स्वीकृतम्। प्रथमं भारतेन नवविंशत्युत्तरत्रिशतं धावनाङ्कानां विजयलक्ष्यं स्थापितम्। लक्ष्यमनुसरता इंग्लैण्डदलेन निर्धारितेषु पञ्चाशत् क्षेपचक्रेषु नवक्रीडकाणां हानौ द्वाविंशत्युत्तरत्रिशतं धावनाङ्काः एव समर्जिताः। स्पर्धायां भव्यप्रदर्शनाय सैम-कुर्रन इत्यसौ स्पर्धापुरुषः चितः। शृङ्खलायां सर्वश्रेष्ठ-प्रदर्शनाय च जॉनी बेयरस्टो इत्यसौ श्रेष्ठक्रीडकत्वेन प्रचितः।
यू ट्यूब् वाहीन्या करः दातव्यः।
सर्वकार्येषु यू ट्यूब् वाहिनीनां आरम्भः कुर्वन्तः सन्ति सर्वे। आबालवृद्धं जनाः यू ट्यूब् द्वारा धनसम्पादनाय प्रयत्नं कुर्वन्तः सन्ति। किन्तु विभवोत्पादकानां हस्ततः शुल्कं (करः) स्वीकर्तुं गूगिलेन निश्चितः अस्ति। १४% भवति कररूपेण दातव्यः अस्ति। अमेरिकस्य नियमानुसारं राष्ट्रात् बहिः विद्यमानानाम् उत्पादकानां पार्श्वतः एव शुल्कः स्वीकरिष्यति। विषयमिदम् अणुपैषद्वारा उत्पादकाः संवेदिताः। मार्च् ३१ तः पूर्वं Adsense सुविध्या गूगिलः न्यवेदनीयः नो चेत् करः व्यवस्था २४% इति भविष्यति।