OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, April 3, 2021

 कोविड्व्यापः तीव्रः - पूना  पिधीयते। 

  पूना> महाराष्ट्रे कोविड्रोगः तीव्रेण व्याप्यते। पूनाजनपदे पिधानं प्रख्यापितम्। भोजनशालाः, विपणयः, मदिरालयाः, चलच्चित्रशालाः, 'माल्'नामकविक्रयणालयाः, आराधनालयाः इत्यादयः सप्ताहं यावत् पिधास्यन्ति। सर्वकारीयबस् यानसेवामभिव्याप्य सामान्यगमनागमनसुविधाः अपि सप्तदिनानि यावत्पिधास्यन्ते। सायं षड्वादनादारभ्य प्रभाते षड्वादनपर्यन्तं 'कर्फ्यू'नामकनिरोधः विधत्तः। 

  पूनाजनपदे गतदिने ६५ जना अपि कोविड्बाधया मृताः। आहत्य मृतानां संख्या १०,०३९ जाता। महाराष्ट्रस्य कोविड्मरणेषु १८% पूनाजनपदे एव।  पिधीयते