OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, October 26, 2015

सोनपुरमेलायां गजविक्रयणाय निरोधनं - केरलव्यापारिणां धननष्टः।


-
सोनपुरं - लोकप्रशस्तायां सोनपुरं पशुविपण्यां गजविक्रयं पूर्णतया निरोद्धुं बीहारसर्वकारस्य निश्चयः। गजान् क्रेतुं कोटिशः रुप्यकाणि दत्तवन्तः केरलीयाः आशङ्काकुलाः अभवन्। बीहारे वैशालीजिल्लायां छप्रासमीपे भवति सोनपुरं गजेन्द्रमोक्षमन्दिरम्। तत्र प्रतिवर्षं वृश्चिकमासे देवालयोत्सवमनुबन्ध्य पशुविपणिः आयोज्यते। अस्याः भागो भवति गजमेला। किन्तु वन्यजीविनां संरक्षणार्थं प्रवर्तमानानां संस्थानां परिश्रमफलं भवति गजानां क्रय-विक्रयनिरोधः ।


'ऐ.एस्. शत्रू वर्धस्व'
इराक् युद्धम्  IS अनुकूलो जातः -टोणी ब्लयरः

वाशिङ्टण् -  इराक् युद्धकाले स्वीकृते निश्चये त्रुटिरजायत। इस्लामिक् स्टेट् (IS) दलस्य  जन्मकारणमपि  अनेन निश्चयेन जातः इति ब्रिट्टणस्य प्रधानमन्त्री टोणीब्लयरेन उक्तः। टोणीब्लयर् महोदयस्य मुखात् इराक युद्धमुद्दिश्य इदं प्रथमतया एव एतादृश परामर्शः इति श्रद्धेयः अंशः। अमेरिका ब्रिट्टन् च मिलित्वा 2003 तमे सद्दाम् हुसैनं विरुद्ध्य कृतेन आक्रमणेन ऐ एस् भीकरतायै बीजावाप: अभूत् इति टोणी ब्लयरः अवदत्। अनेन  सद्दामं स्थानभ्रष्टं कृतवत्भ्यः इतानींतन अवस्थान्तरस्य उत्तरदायित्वम् अस्ति इति तेन स्वयं विमर्शः कृतः। CNN माध्य्माय दत्ते साक्षात्कारे  एव एतस्य आत्मविमर्शः।