OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, October 18, 2015

पम्पायां वस्त्रत्यागः दण्डनार्हः -उच्चन्यायालयः।

कोच्ची- ये शबरिमलतीर्थाटकाः वस्त्राणि त्यक्त्वा पम्पानदीं मलिनीकुर्वन्ति ते मलिनीकरण नियन्त्रणनियममनुसृत्य सार्धसंवत्सरपर्यन्तं कारागृहवासदण्डम् अर्हन्तीति केरल उच्चन्यायालयेनोक्तम्। पम्पायां वस्त्रत्यागः आचारविरुद्धः। किन्तु लक्षशः भक्ताः स्वमेधया गुरुस्वामिनः उपदेशेन वा तेषां श्यामवस्त्राणि नद्यां त्यजन्ति। अयं प्रवृत्तिः जलाशयस्य परिस्थितेः च मलिनीकरणाय नाशाय च भविष्यति। एतत् राज्यजलनियमस्य २४ तम विभागस्य लंघनमित्यतः  ४३ तम विभागमनुसृत्य सार्धसंवत्सरादारभ्य षट्संवत्सरपर्यन्तं कारागृहवासदण्डमर्हतीति नियमज्ञः तोट्टत्तिल् बि राधाकृष्णः नियमज्ञा अनुशिवरामश्च मिलित्वा विद्यमानेन डिविषन् बञ्च् इत्यनेन विहितम्। प्रस्तुत अपराधः दण्डनार्ह इत्यतः तीर्थाटकानां कृते व्यापकप्रचार कार्यः।



  • बिहारे समीक्षायै निर्वाचनायुक्ताः पटनापथे।
  • राजकोटेऽद्यान्तर्जालप्रतिबन्धः।
  • नेपालस्योपप्रधानमन्त्री भारतमागतः।
  • डेनमार्केऽन्त्यस्पर्धायां पीवीसिन्धोरद्य द्वन्द्वः