OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, October 28, 2015

 अफगानिस्ताने भारतस्य प्रभावं निवारयितुं
 तालिबानस्य उपयोगः कृतः

वाषिङ्टन्-  अफगानिस्ताने भारतस्य प्रभावं निवारयितुं तालिबानिति भीकर सङ्घटनायाः उपयोगः कृतः इति प्रकाशितम्। सि ऐ. ऐ. निदेशकस्य जोण्  ब्रन्नस्य नैज ई पत्रेभ्यः(E-mail) स्वीकृताः एताः सूचना: " वीक्लीस " इत्यत्र एव प्रकाशिताः ।
अफ्गानिस्तान-पाकिस्तानयोःदेशयोर्विषयमधिकृत्य
कृतव्यवहारं अमेरिकादेशस्य इरानं प्रति संमुखीकरणनीतिं चाधिकृत्य वीक्लीस् अन्तर्जालद्वारा  प्रकाशितम्। यु एस् राष्ट्रपतित्व स्थानं प्राप्य केवलं दिनत्रयानन्तरं २००८ नवम्बर् सप्तमे एव तेन अफगानिस्ताने भारतस्य निरोधनाय तालिबानस्य साहाय्यं स्वीकृतम् इति पत्रे लिखितम् । सः यु .एस् . विदेशव्यवहारसंमुखीकरणनीतेः प्रमुखः ओबामा वर्यस्य
भीकरवादरोधनविभागस्य उपदेशकः अपि आसीत् ।



 नेप्पाले अद्य राष्ट्रपतिनिर्वाचनम् ।


काट्मण्टु- नेप्पालदेशे राष्ट्रपतिनिर्वाचनं बुधवासरे प्रचलिष्यति । गतमासे आविष्कृतं नवीनं शासननियमावलिमनुसृत्य इदानींतनराष्ट्रपतिः स्थानं त्यजति।