OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, October 30, 2015

 गुप्तमतदानस्य गोप्यता रक्षणीया 
इति 'सम्प्रति वार्ताः।
 
कोच्चि - त्रितल पञ्चायत - प्रादेशिक भरणस्थानानां सद्यः सम्पत्स्यमानेषु निर्वाचनेषु निर्वाचनप्रक्रियानिर्वाहार्थं नियुक्ताः अधिकारिणः स्वकीयनिर्वाचनक्षेत्रेषु मतदानं कर्तुम् अशक्ताः पत्रालयद्वारा स्वमतदानपत्रिकाः प्रेषयन्ति। प्रत्येकस्मिन् जानपदीयमतदानकेन्द्रे द्वित्राः एव पत्रालयीयमतदातारः स्युः। एवञ्चेत् मतगणनावेलायां ते कस्मै मतदानम् अकुर्वन् इति ज्ञातुं शक्यते एवञ्च मतदानस्य गोपनीयता नष्टा भवेत् एतत्परिहाराय उचितं कार्यं कर्तुं सम्प्रति वार्ताः निर्वाचनायोगं न्यवेदयत। सप्तम्बर् मासस्य षोडशदिनाङ्के केरलेभ्यः प्रारब्धा अन्तर्जालीय संस्कृतवार्तापत्रिका भवति सम्प्रति वार्ताः www.samprativartah.in इत्येतस्मिन् अन्तर्जालसङ्केते पत्रिकेय्ं लभ्यते । 
Posted At 17:02:35 IST

संस्कृतशिक्षणं आधुनिकतङ्कनिक्याः
 योजनेन भविष्यति सुग्राह्यम्

भोपाल् - सामान्य रूपेण संस्कृतशिक्षणे व्याकरणस्य दुरूहतायाः कारणेन काठिन्यमनुभूयते| इदानीं राष्ट्रिय-संस्कृत-संस्थानेन एकं संगणकीयं मृदूपागमं निर्मितम्|  संथानस्य शोधकर्ता मनमोहनशर्मा इदं संगणककार्यक्रमं निर्मितवान् | जनाः कार्यक्रमेणानेन सारल्येन संस्कृतसंभाषणं संस्कृतव्याकरणम् अधिगन्तुं शक्नुवन्ति |एनीमेशन माध्यमेन कार्यक्रमे सुरुचिपूर्णता समायोजिता|
-
 इदं कार्यक्रमं दशमीतः द्वादशीकक्षापर्यन्तानां छात्राणां  कृते निर्मितमस्ति | कार्यक्रमस्य व्यावहारिकताया: परिक्षणे छात्राणां निष्पादने वृद्धिः अभवत् | इदं कार्यक्रमं सोफ़्ट्वेयर रूपेण अन्तर्जाले अपि प्रसारितं भविष्यति | शोधकार्यस्यास्य निदेशकः डा नीलाभ तिवारी अनुसारेण इदं कार्यक्रमं प्रत्ययप्रयोगयुक्तं, देशे अद्वितीयमस्ति|



 लोकाराध्येषु १० नेतृषु गान्धिजीमोदिनौ। 

 
-
जनीवा - लोके आराध्यमानेषु राष्ट्रनेतृषु प्रथमेषु दशस्थानेषु द्वौ भारतीयौ अन्तर्भूतौ।भारतस्य राष्ट्रपिता महात्मा गान्धिः
इदानींतनप्रधानमन्त्री नरेन्द्र मोदी च तौ श्रेष्ठपुरुषौ। वेल्ड् इकणोमिक् फारं इत्यनया संस्थया कृते समग्रवीक्षणे गान्धिजी चतुर्थस्थानं मोदीवर्यः दशमस्थानं च अलङ्कुर्वतः।प्रथमस्थाने दक्षिणाफ्रिकन् स्वातन्त्र्यसमरनायकः नेल्सन् मण्डेलावर्यः विराजते।