OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, January 29, 2018

वन्यपशूनां कृते पानजलं वनं नीत्वा तमिल् नाट् सर्वकारः।
      अगलि> वनगजानाम् उपद्रवः रूक्षः अभवत् केरेलेषु। किन्तु समीपस्थे  राज्ये तमिल् नाटे वन्यपशवः शान्तः भवन्ति। वन्यपशूनां कृते पानजलं वनं नीत्वा तमिल् नाट् सर्वकारेण आदर्शत्मक-योजना कृता वर्तते। अनया योजनया प्रयोजनद्वयं स्तः।  पानजलेन  वन्यपशूनां संरक्षणं, गामीणानां संरक्षणं च। वनान्तर्गत जलस्रोतानां शोषणावसरे पशवः वनात् अवतीर्य ग्रामं आगच्छन्ति। ग्रामीणानां कृषि आदिकं नाशयन्ति। ग्रामकुटीरेषु अतिक्रम्य नाशं कुर्वन्ति च। हिम्स्र जन्तवः अपि एवं गृहपशून्  हत्वा भक्षयन्ति।
       इमां अवस्तां परिहर्तुं वनान्तभागस्थ जलाशयस्य समीपे जलसम्पूरिणी निर्मीय आदर्शभूताः अभवत् तमिल् नाट् सर्वकारः।  ११५ जलसम्पूरण्यः  जनानां तथा वन्यपशुनां सुरक्षा युगपदेव कुर्वन्ति। एकस्मिन् जलसम्पूरप्यां ५००० लिट्टर् जलसंवहनक्षमता अस्ति।