OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, January 29, 2018

पद्मपुरस्काराः संस्तुतीः विनैव लभ्यन्ते - मोदी
डा. अभिलाष् जे
          नवदेहली> अस्य वर्षस्य पद्मपुरस्कार जेतॄन् अभिनद्य प्रधानमन्त्री नरेन्द्रमोदी। यस्य कस्यापि संस्तुतीः विनैव पुरस्काराः प्राप्ताः इति पद्मपुरस्कार जेतृभिः उक्ताः इति मोदी स्वप्रतिमासीये आकाशवाणीकार्यक्रमे मन की बात मध्ये उक्तवान्।  ग्रामीणवैद्यायाः मलयालवनितायै लक्ष्मिक्कुट्टि अम्मा नामिकायै कृते दत्तपद्मपुरस्कारं भाषणमध्ये सूचितवान्। अस्माभिः परितः अवलोक्यते चेत् बहूनि महत्तराणि कार्याणि कुर्वतः अनेकान् द्रष्टुं शक्यते। यत् किमपि वा भवतु विना एव प्रतिफलं स्वप्रयत्नेन समाजे ते स्वयमुद्धृताः इत्यतः सम्माननार्हाः ते।

           पद्मपुरस्काराणां कृते योग्यान् चयितुं गत त्रिवर्षेषु बहूनि परिवर्त्तनानि आगतानि। इदानीं यः कश्चित् जनः यं कमपि पुरस्काराय नामनिर्द्शं दातुं प्रभवति। तेषां कीर्तिः न तेषां कर्माणि सन्ति परिगणनीयानि।