OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, February 6, 2020

दशनिमेषाभ्यन्तरेण  विवाहानुष्ठानानि समाप्य कोरोणा रोगीपरिचर्याय गतवान् 
   बैजिङ्> चीनस्य भिषग्वरः दशनिमेषाभ्यन्तरेण स्वस्य विवाहानुष्ठानानि समाप्य कोरोणा रोगिणः परिचर्याय गतवान् इति वार्ता विश्वस्य वार्ता पुटेषु निभृता अस्ति। भिषग्वरस्य लि षिकियाङ् इत्यस्य विवाहवार्ता अस्ति इयम्l कोरोण विषाणु व्यापनेन जनाः दूयमानाः सन्ति, अतः शीघ्रमेव आतुरालयं प्रति गन्तव्यम् इति चिन्ता आसीत् तस्यl  तस्य वधू यु होङ्यान् अपि वैद्या भवति। विवाहानन्तरं मिलित्वा भोजनमपि अकृत्वा गतवान् पतिः इत्यनेन तस्यै खेदलेशोऽपि नास्तिI