OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, February 26, 2020

केरल संस्कृताध्यापक सङ्घटनस्य राज्यस्तरीयम् अधिवेशनम् आलुवा देशे
      आलुव>  केरल संस्कृताध्यापक सङ्घटनस्य राज्यस्तरीयम् अधिवेशनम्  फेब्रुवरी २७,२८,२९ दिनाङ्केषु प्रचलिष्यति। आलुवा तोट्टुमुखं वै.एम्.सी.ए. सभागृहे आयोज्यमानं विद्याभ्याससम्मेलनम् २९ दिनाङ्के प्रातः ११ वादने केरलस्य शिक्षामन्त्री प्रो. सी. रवीन्द्रनाथः उद्घाटयिष्यति। तदानीं विधानसभासामाजिकः अन्वर् सादत् आध्यक्ष्यं निर्वक्ष्यति।
     २७ दिनाङ्के राज्यस्तरीय कौण्सिल् मेलनं भविष्यति। २८ दिनाङ्के राज्यस्तरीयम् अधिवेशनं जिला पञ्चायत् अध्यक्षः अब्दुल् मुत्तलिख् उद्घाटयिष्यति। प्रतिनिधिसम्मेलनं संघटनस्य भूतपूर्वाध्यक्षः एन्. राजगोपाल् वर्यः तथा आपृच्छमेलनं लोकसभासदस्यः बन्नी बहनान् च उद्घाटयिष्यति।
   
    राज्यस्तरीयमेलनमनुबन्ध्य आयोजिते सम्भाषण चित्ररचनास्पर्धासु  विजयिनां तथा सम्प्रतिवार्तायाः छात्र वार्तावतारकाणां  च  प्रमाणपत्राणि शिक्षामन्त्री वितरिष्यति। श्रीशङ्कराचार्यसंस्कृतविश्वविद्यालयस्य कुलपतिः डो. धर्मराज् अटाट् वर्यः मुख्यप्रभाषणं विधास्यति। राष्ट्रपतिपुरस्कारजेतारं जी. गङ्गाधरन् नायर् वर्यं मन्त्री आदरिष्यति।