OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, February 11, 2020

प्रचण्डवातेन विमानं डयडयितम् द्विहोराभ्यां पूर्वं लक्ष्यं प्राप्तम्।  
      लण्टन् > सप्त वर्षाभयन्तरे जायमानेषु प्रचण्डवातेषु अतिशक्तः भवति ह्यः यु के यूरोप् प्रदेशे जातः सियार इति नामाङ्कितः वातः। किन्तु प्रचण्ड वातस्य सञ्चारगतिम् उपयुज्य ब्रिट्टणस्य विमानेन यात्रासमयः न्यूनीकृतः।  न्यूयोर्कतः हीत्रु विमान निलयं प्रति समायातस्य विमानस्य सञ्चारपथस्य अनुकूलदिशायाम् आसीत् प्रचण्डवातस्य गतिः। अतः १२९० वेगेन डयनाय अशक्यत् इत्यनेन ४.५६ घण्डाभ्यन्तरेण विमानं हीत्रु विमाननिलयं प्राप्तम्।