OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, February 18, 2020

संस्कृताभियानम्
     नमांसि, 'अध्यापयति' इत्यत्र णिच् प्रत्ययः। छात्रः अधीते। अध्यापकः अधीयानं छात्रं प्रेरयति। एवमेव पाठयतिप्रभृतिषु अपि। छात्रः पठति। (अधीते इत्यर्थः) पठन्तं प्रेरयति अध्यापकः। छात्रः शिक्षते। शिक्षमाणं तं प्रेरयति शिक्षकः (शिक्ष+णिच्+ण्वुल्)। छात्रः बोधति। बोधन्तं तं प्रेरयति बोधकः। एवं सर्वत्र 'कर्ता' तु छात्रः एव। अध्यापकः भवति प्रेरकः।अतः एव उक्तम्-अध्यापदनादयः शब्दाः एव ज्ञापयन्ति-अध्ययनप्रक्रिया छात्रकेन्द्रिता स्यात् इति। मित्राणि, छात्रकेन्द्रितत्वे एव अभिव्यक्तिकौशलस्य विकासः।
 जयतु संस्कृतम् जयतु भारतम् ।
 प्रा. डॉ. विजयकुमार: मेनन्, कवि कुलगुरु कालिदास विश्वविधालयः महाराष्ट्रम्।