शाकादीनां संवहनपेटिकातः विषवातकः, ४ मृताः १५ आतुरालये।
|  | 
| आशयद्योतकं चित्रम्। | 
  इस्लामबाद् > पाकिस्थाने शाकादीनां संवहनपेटिकायाः निर्गतेन विषवातकेन चत्वारः जनाः मृताः  पञ्चदशनाः आतुरालयं प्रविष्टाः च। कराच्चीनगर-समीपे केमारि मण्डले रविवासरे सायं काले एव घटना। महानौकातः अवतारिताः संवहनपेटिकायाः उद्घाटनवेलायाम् आसीन् दुर्घटना। समीपस्थाः विषवायुना मूर्छिताःI
 



