OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, February 15, 2020

सूर्यस्य सहस्रगुणिताकारयुक्तं तिरुवतिरनक्षत्रं 'सूपर नोव' विस्फोटनाय सज्जम्।
    ओरैयण् नक्षत्रसमूहेषु अधिकप्रकाशयुक्तस्य  बीट्टल् जीस् (तिरुवातिरा) नक्षत्रस्य  प्रकाशतीव्रतायां न्यूनता अस्ति इति वैज्ञानिकाः वदन्ति। प्रकाशतीव्रतायां  १२  स्थाने आसीत् इदम्। गतमासे अस्य स्थानं २० तमम् इति परिष्कृतम्। भूमीतः ६४२.५ प्रकाशवर्षात् दूरं भवति अस्य स्थानम्। अस्य स्फोटनम् भूमीतः दृष्टुं शक्यते। विल्लनोव विश्वविद्यालयस्य ज्योतिवैज्ञानिकः एड्वेर्ड् गिनन् इत्याख्येन सञ्चितानि विवरणानि अधिकृत्य  अनुमानानि निष्पादितानि भवन्ति। फेब्रुवरि २१ दिनाङ्के प्रकाशस्य न्यूनतममात्रायां समागमिष्यति इति अनुमीयते वैज्ञानिकैः।