OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, March 5, 2020

कोरोण- हस्तदानं मास्तु भारतीयानां नमस्ते उपयुज्यन्तां - बेञ्चमिन् नेतन्याहु।
(नमस्ते कथं करणीयम् इति प्रदर्शयति बेञ्चमिन् नेतन्याहु।
Photo/ @hum_bolega)
         नवदिल्ली> कोरोणा वैराणुव्यापनं प्रतिरोद्धुं हस्तदानस्य  सन्दर्भे  भारतीयानां नमस्ते उपयुज्यन्ताम् इति इस्रायेलस्य प्रधानमन्त्रिणा बञ्चमिन्‌ नेतन्याहुना उक्तम्। सर्वे अञ्जलीबद्धो भूत्वा स्वागतं करणीयम् इति तेन अभिप्रेतम्।  विषाणुव्यापन सम्बन्धतया आयोजिते आलोकनोपवेशनानन्तरं पत्रकारमेलने भाषमाणः आसीत् सः। १५ जनाः इस्रायेल् राष्ट्रे कोरोणाविषाणुग्रस्थाः सन्ति। ७००० जना: निरीक्षिताः च सन्ति।