OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, March 16, 2020

इलट्रोणिक् उपकरणानां पुनस्समीकरणसेवा उपभोक्तृजनानाम् अधिकारं कर्तुं यूरोप् प्रयतते।

 यस्मात् विद्युदाणविक-('इलट्रोणिक्') उपकरणानां कालः समारब्धः तस्मात् आरभ्य 'इ वेस्ट्' कारणेन परिस्थित्यै भीषा च आरब्धा। अस्मिन् समर्थयुगे उपकरणानां प्रवर्तनरीत्यां प्रतिदिनं परिवर्तनं भवति च। अतः इलट्रोणिक्' उपकरणानाम् आयुः सामान्येन हृस्वतां प्राप्नोति। नूतनानाम् उपकरणानां वाञ्छया नवीनोपकरणानि क्रीणाति। पूर्वतनोपकरणं पुनसमीकरणसेवां विना परित्यजन्ति जनाः। करदूरवाण्यः भवन्ति एवं परित्यक्तेषु आधिकाः। अतः 'इ' मालिन्यवर्धने कर दूरवाण्याः परिचर्या अधिकारः कर्तव्या इति यूरोप् राष्ट्रसमूहेन निश्चितम् अस्ति।