OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, March 14, 2020

कोरोणाव्यापनं - भुवनं निश्चलं प्राप्नोति?
कोच्ची > कोरोणानामकः विषाणुः  लोके सर्वत्र वेगेन व्याप्नोतीति विविधरेष्ट्रेभ्यः बहिरागम्यमानैः वृन्तान्तैः सूच्यते। इट्टलिम् अभिव्याप्य बहुषु राष्ट्रेषु प्रतिरोधप्रक्रमाः मन्दगत्या एव प्रचलन्ति इत्येव प्रधानहेतुः।
  विविधैः राष्ट्रैः अन्ताराष्ट्रियविमानसेवनानि निरस्तानि वा न्यूनीकृतानि। सर्वत्र वाणिज्यमण्डलानि मन्दगतिं प्राप्तानि। 
 अमेरिक्कायां ४० कोविड्-१९ मरणानि दृढीकृतानि। सहस्राधिकाः रोगबाधिताः अभवन्। रोगव्यापनं जवेन सम्भवति इत्यतः तत्र विपत्कालजाग्रता प्रख्यापिता। ५० बिल्यन् डोलर् रोगप्रतिरोधप्रक्रमाय राष्ट्रपतिः डोणाल्ड् ट्रम्पः अनुमोदितवान्। 
 ब्रिट्टने विषाणुव्यापनप्रतिरोधः न सक्रिय इति सूचना लभ्यते। विद्यालयाः विश्वविद्यालयाश्च पिहिताः। 
 ब्रसीलराष्ट्रस्य राष्ट्रपति कोविड् बाधित इति स्थिरीकृतः। सः निरीक्षणे वर्तते।
  इटल्यां मृत्युसंख्या १२५० अतीता। रोगबाधिताः १७,६६० अभवन्। 
  राष्ट्रेषु सर्वत्र वीथयः विजनाः वर्तन्ते। क्रयविक्रयशालाः, उद्यानानि, चलच्चित्र-नाटकादिविनोदशालाः  इत्यादीनि सामाजिकस्थानानि सर्वाणि विजनानि वर्तन्ते।