OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, March 3, 2020

निर्भयाप्रकरणं -  मृत्युदण्डः पुनरपि परिवर्तितः। 
  नवदिल्ली > सुदीर्घानिश्चितित्वस्यान्ते निर्भयाप्रकरणस्य अपराधिनां मृत्युपाशविधिः तृतीयवारमपि परिवर्तितः। प्रकरणे अपराधिषु अन्यतमेन  पवनगुप्तेन ह्यः समर्पिता दयायाचिका एव हेतुः। अनेन हेतुना दिल्ली 'अडीषणल् सेषन्स्' नीतिज्ञः धर्मेन्द्र राणः सर्वेषामपराधिनां मृत्युपाशं निगृहीतवान्। 
    पवनगुप्तस्य दयायाचिका राष्ट्रपतिना निरस्ता भवेत्तर्हि १४ दिनानन्तरमेव दण्डः विधास्येत इति कारागारनियमः।