OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, March 18, 2020

त्रयाणां संस्कृतविश्वविद्यालयानां राज्यसभायाः अनुज्ञा।
 नवदिल्ली >  भारते त्रीन् कल्पितविश्वविद्यालयान् केन्द्रविश्वविद्यालयान् कर्तुं राज्यसभा अनुज्ञामदात्। राष्ट्रिय संस्कृतसंस्थानं नवदिल्ली, लाल् बहदूर् शास्त्री राष्ट्रिय संस्कृतविद्यापीठं नवदिल्ली, राष्ट्रिय संस्कृतविद्यापीठं तिरुप्पती इत्येते कल्पितविश्वविद्यालयाः एव केन्द्रीयविश्वविद्यालयरूपेण परिणमन्ते। 
  पूर्वं लोकसभया एतदर्थं विधायकं उत्तीर्णमासीत्। राष्ट्रियैक्यं परिपोषयितुं संस्कृकभाषा अपेक्षितेति विधेयकमधिकृत्य चर्चायाः प्रतिवचनं कुर्वन् मानवशेषिविभवमन्त्रिणा रमेष् पोख्रियालेन उक्तम्।