OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, August 26, 2020

 एम् वि श्रेयांस् कुमारः राज्यसभां प्रति चितः। 

       अनन्तपुरी> केरलतः वामपक्षदलीयस्थानाशी  लोक तान्त्रिक जनतादलस्य [एल् जे डि] राज्याध्यक्षः एम् वि श्रेयांस्कुमारः राज्यसभासदस्यरूपेण चितः। यू डि एफ् स्थानाशिनं लाल् वर्गीस् कल्पलवाडि नामकं सः पराजितवान्। ४१ विरुध्य ८८ मतदानैः श्रेयांस् कुमारः विजयीभूतः। 

  राज्यसभासदस्यस्य एम् पि  वीरेन्द्रकुमारस्य वियोगेन रिक्तस्थानमुद्दिश्य आसीत् निर्वाचनं सम्पन्नम्। कोविड् नियमान् परिपाल्य अासीत् निर्वाचनम्।