OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, August 30, 2020

 भारत-पाक्सीमायां कन्दरम् अधिगतम्। 

       जम्मू >  भारत-पाकिस्थानयोः अन्ताराष्ट्रसीमावृत्याः अधस्तात् निर्मितमेकं कन्दरं सीमारक्षासेनया  अधिगतम्। पाकिस्थानात् भारतं प्रति आतङ्कवादिनां प्रवेशाय तथा उन्मादवस्तूनां कुनयनाय एवेदं निर्मितमिति सीमारक्षण-सेनायाः निगमनम्। 

  २५ पादपरिमिते गर्ते आसीदस्य निर्माणं प्रवृत्तम्। चतुर्पादपरिमितः विस्तृतिरप्यस्ति। यन्त्रसाह्येन निरीक्षणे सीमातः १७४ मीटर् दूरं यावत् कन्दरस्य दैर्घ्यं दृष्टम्। 

  कन्दरस्य मुखपिधानाय उपयुक्तेषु पलास्तिकमृत्स्यूतेषु कराच्ची तथा शकर्खड् इत्यादिषु प्रदेशेषु वर्तमानानाम् उद्योगशालानां मुद्राः निर्माणदिनाङ्कः उपरमदिनाङ्कश्च मुद्रिताः सन्ति। अतः समीपकाले एवास्य निर्माणं प्रवृत्तमिति स्पष्टम्।