OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, June 1, 2023

 भारते नूतनसंसदस्य उद्धाटनानुबन्धधितया ७५ रूप्यकस्य नाण्यकस्य प्रकाशनं कृतम्। नाण्यकस्य भारः३५ ग्राम् अस्ति। 

 नवदिल्ली> भारतराष्ट्रे नूतनसंसदभवनस्य उद्घाटनस्य भागतया ७५ रूप्यकाणां विशेषमुद्रा प्रकाशिता। मुद्रायाम् अस्यां संसदभवनस्य प्रतिबिम्बम् अभिलेखितमस्ति। नाण्कस्य पुरोभागे अशोकस्तम्भे सिंहमुद्रा, 'सत्यमेव जयते' इति आप्तवाक्यम् च उल्लिखितम्। अन्तर्राष्टिय-अङ्केषु ७५ इति मूल्यमपि रेखाङ्कितमस्ति। नाण्यकस्य पृष्टभागे नूतनसंसदभवनस्य चित्रम् आलिखितम्। अधोभागे'सन्सद् सङ्कुल' इति देवनागरीलिप्यां तथा 'पार्लमेन्ट् मन्दिरम्' इति आङ्लभाषायामपि उल्लिखितमस्ति। नाण्यकस्य वामभागे 'भारत' इति देवनागरीलिप्या लिखितमस्ति। दक्षिणभागे 'इन्ट्या' इति आङ्गलभाषायां लिखितमस्ति। ५०% रजतम्,४०% ताम्रं, ५% यशदं,५% निकेलम् इत्यादयः धातवः समावेश्य चतुर्भागयुक्तः मिश्रधातुरूपयुज्य (Aloy) एव नाण्कं निर्मितम्। अनेन सह एका स्मारकचित्रमुद्रा (commemorative postage stamp) अपि प्रकाशिता वर्तते।