OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, June 15, 2023

 आराष्ट्रं विद्यालयेषु परं योगपरिशीलनम्।

परिशीलकनियुक्तिकार्यक्षेपाः आरब्धाः। 

नवदिल्ली> भारते सर्वत्र विद्यालयेषु योगानुष्ठानपरिशीलनार्थं परिशीलकान् नियोक्तुं केन्द्रप्रशासनस्य आयुष्-शैक्षिकमन्त्रालयाभ्यां प्रक्रमाः आरब्धाः। योगानुबन्धकर्मावसराणां सृष्टिरपि अनेन पदक्षेपेणोद्दिश्यते। 

  एन् सि ई आर् टि पाठ्याभियोजनायां पूर्वमेव योगः पाठ्यरूपेण वर्तमानः अस्ति। केषुचित् राज्यस्तरीयपाठपुस्तकेष्वपि योगदर्शनमधिकृत्य पाठाः सन्ति। किन्तु केवलं सिद्धान्ताध्ययनं न तु प्रयोगिकपरिशीलनमित्यत एव परिशीलकानां नियुक्त्यर्थं प्रक्रमाः आरब्धाः इति आयुष् मन्त्रिणा सर्बानन्द सोनोवाल् वर्येण निगदितम्।

   यथा विद्यालयेषु इदानीं कायिकपरिशीलनं प्रचलति तथा योगाभ्यासे परिशीलनं दातुं 'योगपरिशीलकः' इति पदसृष्टिः भविष्यति। दिल्ली गोवा उत्तरप्रदेशः इत्येषु राज्येषु तत्तत्प्रशासनानां अधीनतया योगपरिशीलनं प्रचलन्त्येव। एतादृशरीत्या योगपरिशीलनं आराष्ट्रं व्यापयिष्यते इति मन्त्रिणा स्पष्टीकृतम्।