OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, June 15, 2023

 १४ वर्षीयः बालः अभियन्तारूपेण नियुक्तः।

   न्यूयोर्क्> स्पेस् एक्स् संस्थायाम् इलोण् मस्केन १४ वर्षीयः बालः अभियन्तारूपेण नियुक्तः। सान्ता क्लारा विश्वविद्यालयस्य छात्रः कैरण् क्वासि नामकः भवत्येषः। विश्वविद्यालयस्य १७२ संवत्सरस्य चरिते एतादृशः अन्यः बुद्धिशाली लघुवयस्कः छात्रः नासीत्। 

    कैरणः बाल्यकालात् एव वैज्ञानिकविषयेषु तथा प्रौद्योगिकविषयेषु च रुचिं प्रदर्शितवान्। द्वितीये वयसि सः स्पष्टतया वक्तुं समर्थः अभवत्। बालवाटीकक्ष्यायाः अध्ययनकाले रेडियोद्वारा यत् श्रुतवान् तत् बालकानां कृते पुनः कथयितुम् अपि कुशलः आसीत्। नववर्षीयः सन् सः कैलिफोर्निया-देशस्य लास-पोसिटास्-सामुदायिकमहाविद्यालये अध्ययनार्थम् आगतवान्। २०१९ तमे वर्षे सांता क्लारा विश्वविद्यालये ए आइ रिसर्च फेलोस् योजनायाम् 'इन्टण्षिप्' रूपेण सः सम्मिलितवान्। २०२२ तमे वर्षे सांताक्लारा विश्वविद्यालये पूणकालिकछात्ररूपेण मिलितवान् सः वर्षद्वयानन्तरं स्वस्य १४ वयसि सङ्गणकविज्ञाने अभियांत्रिकीशास्त्रे च स्नातकपदवीं प्राप्तवान्। 

    एषः कैरणः विश्वस्मिन् आयोजितेषु बुहुषु वैज्ञानिकसम्मेलनेषु, प्रमुखः प्रवक्ता आसीत्। अपि च युव-वैज्ञानिकत्वेन बहवः लेखाः लिखितवान्। स्पेस् एक्स् इत्यत्र लब्धावसरेण उत्साहभरितः अस्ति इति कैरणः लिङ्क्डइन् इत्यत्र लिखितवान्।