OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, June 30, 2023

 विश्वचषकक्रिकट् स्पर्धाः - प्रारम्भमुहूर्तः निश्चितः। 

आतिथेयः भारतम्। 

ओक्टोबर् पञ्चमदिने प्रारम्भः; नवम्बर् १९  समाप्तिः। 

# उद्घाटनस्पर्धायाम् इङ्ग्लण्डः न्यूसिलान्टः च।

# भारतस्य प्रथमस्पर्धा ओक्टोबर् ८, आस्ट्रेलियां प्रति।

# गुरुवत्सराणि अतीत्य भारतस्य आतिथेयत्वम्। 

मुम्बई> १३तमा  एकदिनक्रिकट् विश्वचषकस्पर्धा परम्परा ओक्टोबर् पञ्चमदिनाङ्कतः नवम्बर् १९तमदिनाङ्कपर्यन्तं भारते विधास्यति। अहम्मदाबादस्थे नरेन्द्रमोदिक्रीडाङ्कणे सम्पत्स्यमाने उद्घाटनप्रतिद्वन्द्वे वर्तमानकालीनवीरः इङ्ग्लण्डदलः द्वितीयस्थानीयं न्यूसिलान्टदलं प्रति स्पर्धिष्यते। 

   भारतस्य प्रथमः प्रतिद्वंद्वः ओक्टोबर् अष्टमे दिनाङ्के चेन्नै नगरे आस्ट्रेलियां विरुध्य विधास्यति। अन्तिमस्पर्धा नवम्बरस्य १९ तमे अहम्मदाबादे भविष्यति। 

  परम्पराप्रारम्भाय १०० दिनेषु अवशिष्टेषु कुजवासरे आसीत् ऐ सि सि संस्थया [International Cricket Council] मुम्बय्यां विश्वचषकस्पर्धानां क्रमः प्रख्यापितः। 

  २०११ तमे वर्षे आसीत् भारतम् इतःपूर्वं श्रीलङ्का बङ्गलदेशाभ्यां सह  आतिथेयत्वमवहत्। किन्तु अस्मिन् सन्दर्भे केवलं  भारते एव स्पर्धाः भविष्यन्ति।