OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, June 8, 2023

 केरले 'के - फोण्' नामकाभियोजना समारब्धा। 

अनन्तपुरी> केरलराज्ये निर्धनानां कृते निश्शुल्काम्  अन्तर्जालसुविधां दातुं राज्यप्रशासनेन आविष्कृता के - फोण्' (Kerala Fiber Optic Network) नामिका अभियोजना मुख्यमन्त्रिणा पिणरायि विजयेन उद्घाटिता।निर्धनानां  २० लक्षं संख्याकानां परिवाराणां कृते निश्शुल्केनैव अतिशीघ्रा अन्तर्जालसुविधा दास्यते। अन्येषां कृते मितमानेन दास्यते। 

  १७,४१२ सर्वकारीयकार्यालयेषु एतत्कालाभ्यन्तरे के फोणीयसंबन्धः कृतः। नवसहस्राधिकं गृहेषु सम्बन्धाय व्यवस्था कृता। 

  प्रतिनिमिषं २० एम् बि इत्याधारवेगेन के फोण् द्वारा अन्तर्जाललब्धये केवलं  २९९ रूप्यकाणि प्रतिमासं आवश्यकानि। २५० एम् बि पि एस् शीघ्रपर्यन्तं अन्तर्जाललब्धिः भविष्यति।