OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, September 28, 2023

 '2018' ओस्कार् परिगणनायै चितम्। 


चेन्नई>  आगामिवर्षस्य ओस्कार् चलच्चित्रपुरस्काराय '२०१८' नामकं कैरलीचलनचित्रं भारतस्य आधिकारिकप्रवेशकरूपेण चितम्। जूड् आन्टणि जोसफः अस्त्यस्य चित्रस्य निदेशकः। भारतीय चलच्चित्रसमित्या नियुक्तः १६ अङ्गयुक्तः विधिकर्तृसङ्घ एव 2018 - Every One is Hero इति प्रलयाधारं चित्रं निरचिनोत्। पर्यावरणव्यतियानं इति सार्वलौकिकसमस्यां आधारीकृत्य एवेदं चलच्चित्रं सज्जीकृतमिति विधिनिर्णयसंघेन निगदितम्। 

  ओस्कार् विधिनिर्णयाधिकारिणाम् अनुमोदनं लप्स्यते चेत् विदेशचलच्चित्रविभागे चित्रमिदं स्पर्धिष्यते। २२ विविधभाषाचित्राणि विधिनिर्णयसंघस्य पुरतः समर्पितानि। तेषु हिन्दी तमिल तेलुगु भाषाचित्राणि पराजित्य एव २०१८ ओस्कार् नामनिर्देशपदम् उपलब्धम्।