OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, September 30, 2023

 पाकिस्थाने आत्मघातिस्फोटनयुगलं - ५८ जनाः हताः। 

कराची> पाकिस्थाने कतिपयहोराणां मध्ये स्थानद्वये संवृत्ते आत्मघातिस्फोटनयोः ५८ जनाः हताः।  शताधिकाः आहताः। 

   बलूचिस्थानप्रान्ते मस्तुङ् जनपदे अल् फल मार्गस्थे मदीना आराधनालये आसीत् प्रथमं स्फोटनम्। शुक्रनासरे नबिदिनोत्सवानां मध्ये दुरापन्नेन अनेन  स्फोटनेन 'डेप्यूटि सूप्रण्ट्'पदीय‌ं नवास् गष्कोरि नामकमभिव्याप्य ५४ जनाः मृताः। बहवः आहताः। 

  अनन्तरं कतिपयहोराभ्यन्तरे खैबर् पक्तूणप्रान्ते हान्कु नगरस्थे आराधनालये आत्मघात्याक्रमणं दुर्वृत्तम्। तत्र चत्वारः मृताः। १२ जनाः व्रणिताश्च। आक्रमणस्य उत्तरदायित्वमितःपर्यन्तं न केनापि स्वीकृतम्।